|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.48. अध्यायः 048
Mahabharata - Shanti Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति परशुरामचरितकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वासुदेव उवाच। 12-48-0x(5442)(66619)
शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः।
महर्षीणां कथयतां कारणं तस्य जन्म च॥ 12-48-1(66620)
यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः।
उद्भूता राजवंशेषु ये भूयो भारते हताः॥ 12-48-2(66621)
जह्नोरजस्तु तनयो बलाकाश्चस्तु तत्सुतः।
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते॥ 12-48-3(66622)
अग्र्यं तपः समातिष्ठत्सहस्राक्षसमो भुवि।
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत॥ 12-48-4(66623)
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः।
समर्थं पुत्रजनने स्वयमेवैत्य भारत॥ 12-48-5(66624)
पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः।
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः॥ 12-48-6(66625)
तस्य कन्याऽभवद्राजन्नाम्ना सत्यवती प्रभो।
तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः॥ 12-48-7(66626)
ततस्तया हि कौन्तेय भार्गवः कुरुनदनः।
पुत्रार्थं श्रपयामास चरुं गाधेस्तथैव च॥ 12-48-8(66627)
आहूय चाह तां भार्यामृचीको भार्गवस्तदा।
उपयोज्यश्चरुरयं त्वया मात्राऽप्ययं तव॥ 12-48-9(66628)
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः।
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः॥ 12-48-10(66629)
तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम्।
तपोन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति॥ 12-48-11(66630)
इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः।
तपस्यभिरतः श्रीमाञ्जगामारण्यमेव हि॥ 12-48-12(66631)
एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः।
गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति॥ 12-48-13(66632)
चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा।
भर्त्रा दत्तं प्रसन्नेन मात्रे हृष्टा न्यवेदयत्॥ 12-48-14(66633)
माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ।
तस्याश्ररुमथाज्ञातमात्मसंस्थं चकार ह॥ 12-48-15(66634)
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा।
धारयामास दीप्तेन वपुषा घोरदर्शनम्॥ 12-48-16(66635)
तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन भारत।
अब्रवीद्भृगुशार्दूलः स्वां भार्यां देवरूपिणीम्॥ 12-48-17(66636)
मात्राऽसि व्यंसिता भद्रे चरुव्यत्यासहेतुना।
तस्माज्जनिष्यते पुत्रः क्रूरकर्माऽत्यमर्षणः।
`जनयिष्यति माता ते ब्रह्मभूतं तपोधनम्॥' 12-48-18(66637)
विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम्।
क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम्॥ 12-48-19(66638)
विपर्ययेण ते भद्रे नैतदेवं भविष्यति।
मातुस्ते ब्राह्मणो भूयात्तव च क्षत्रियः सुतः॥ 12-48-20(66639)
सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा।
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्॥ 12-48-21(66640)
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः।
ब्राह्मणापशदं पुत्रं प्राप्स्यसीति हि मां प्रभो॥ 12-48-22(66641)
ऋचीक उवाच। 12-48-23x(5443)
नैष संकल्पितः कामो मया भद्रे तथा त्वयि।
उग्रकर्मा भवेत्पुत्रश्चरुव्यत्यासहेतुना॥ 12-48-23(66642)
सत्यवत्युवाच। 12-48-24x(5444)
इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम्।
शमात्मकमृजुं पुत्रं दातुमर्हसि मे प्रभो॥ 12-48-24(66643)
ऋचीक उवाच। 12-48-25x(5445)
नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः।
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने॥ 12-48-25(66644)
[दृष्टमेतत्पुरा भद्रे ज्ञातं च तपसा मया।
ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत्॥] 12-48-26(66645)
सत्यवत्युवाच। 12-48-27x(5446)
काममेवं भवेत्पौत्रो मामैवं तनयः प्रभो।
शमात्मकमृजुं पुत्रं लभेयं जपतां वर॥ 12-48-27(66646)
ऋचीक उवाच। 12-48-28x(5447)
पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि।
यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति॥ 12-48-28(66647)
वासुदेव उवाच। 12-48-29x(5448)
ततः सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतं शान्तं जमदग्निं यतव्रतम्॥ 12-48-29(66648)
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः।
प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम्॥ 12-48-30(66649)
ऋचीको जनयामास जमदग्निं तपोनिधिम्।
सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम्॥ 12-48-31(66650)
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्।
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्॥ 12-48-32(66651)
[तेषयित्वा महादेवं पर्वते गन्धमादने।
अस्त्राणि वरयामास परशुं चातितेजसम्॥ 12-48-33(66652)
स तेनाकुण्ठधारेण ज्वलितानलवर्चसा।
कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत्॥] 12-48-34(66653)
एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली।
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः॥ 12-48-35(66654)
दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान्।
चक्रवर्ती महातेजा विप्राणामाश्वमेधिके॥ 12-48-36(66655)
ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम्।
सबाह्वस्त्रबलेनाजौ जित्वा परमधर्मवित्॥ 12-48-37(66656)
तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना।
सहस्त्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये॥ 12-48-38(66657)
ग्रामान्पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान्।
जज्वाल तस्य वाणेद्धचित्रभानुर्दिधक्षया॥ 12-48-39(66658)
स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः।
ददाह कार्तवीर्यस्य शैलानपि धरामपि॥ 12-48-40(66659)
स शून्यमाश्रमारण्यमापवस्य महात्मनः।
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः॥ 12-48-41(66660)
आपवस्तं ततो रोषाच्छशापार्जुनमच्युत।
दग्धे श्रमे महाबाहो कार्तवीर्येण वीर्यवान्॥ 12-48-42(66661)
त्वया न वर्जितं यस्मान्ममेदं हि महद्वनम्।
दग्धं तस्माद्रणे रामो बाहूंस्ते च्छेत्स्यतेऽर्जुन॥ 12-48-43(66662)
अर्जुनस्तु महातेजा बली नित्यं शमात्मकः।
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत।
नाचिन्तयत्तदा शापं तेन दत्तं महात्मना॥ 12-48-44(66663)
तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे।
निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा॥ 12-48-45(66664)
जमदग्नेस्तु धेन्वास्ते वत्समानिन्युरच्युत।
अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः॥ 12-48-46(66665)
तन्निमित्तमभूद्युद्धं जामदग्नेर्महात्मनः।
ततोऽर्जुनस्य बाहून्स चिच्छेद रुषितोऽनघ॥ 12-48-47(66666)
तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम्।
प्रत्यानयत राजेन्द्र तेषामन्तः पुरात्प्रभुः॥ 12-48-48(66667)
अर्जुनस्य सुतास्ते तु संभूयाबुद्धयस्तदा।
गत्वाऽऽश्रममसंबुद्धा जमदग्नेर्महात्मनः।
अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप॥ 12-48-49(66668)
समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः।
`प्रत्यक्षं राममातुश्च तथैवाश्रमवासिनाम्॥ 12-48-50(66669)
श्रुत्वा रामस्तमर्थं च क्रुद्धः कालानलोपमः।
धनुर्वेदेऽद्वितीयो हि दिव्यास्त्रैः समलंकृतः॥ 12-48-51(66670)
चन्द्रबिम्बार्धसंकाशं परशुं गृह्य भार्गवः।'
ततः पितृवधामर्षाद्रामः परममन्युमान्।
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत॥ 12-48-52(66671)
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान्।
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः॥ 12-48-53(66672)
स हैहयसहस्राणि हत्वा परममन्युमान्।
महीं सागरपर्यन्तां चकार रुधिरोक्षिताम्॥ 12-48-54(66673)
स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम्।
कृपया परयाऽऽविष्टो वनमेव जगाम ह॥ 12-48-55(66674)
ततो वर्षसहस्रेषु समतीतेषु केषुचित्।
कोपं संप्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः॥ 12-48-56(66675)
विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः।
परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि॥ 12-48-57(66676)
ये ते ययातिपतने यज्ञे सन्तः समागताः।
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते॥ 12-48-58(66677)
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि।
भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः॥ 12-48-59(66678)
सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता।
परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः॥ 12-48-60(66679)
ततो ये क्षत्रिया राजञ्शतशस्तेन वर्जिताः।
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्॥ 12-48-61(66680)
स पुनस्ताञ्जघानाशु बालानपि नराधिप।
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा॥ 12-48-62(66681)
जातंजातं स गर्भं तु पुनरेव जघान ह।
अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः॥ 12-48-63(66682)
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः।
दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः॥ 12-48-64(66683)
स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः।
स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत्॥ 12-48-65(66684)
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने।
न ते मद्विषये राम वस्तव्यमिह कर्हिचित्॥ 12-48-66(66685)
`पृथिवी दक्षिणा दत्ता वाजिमेधे मम त्वया।
पुनरस्याः पृथिव्या हि दत्त्वा दातुमनीश्वरः॥' 12-48-67(66686)
ततः शूर्पाकरं देशं सागरस्तस्य निर्ममे।
संत्रासाज्जामदग्न्यस्य सोऽपरान्तमहीतलम्॥ 12-48-68(66687)
कश्यपस्तां महाराज प्रतिगृह्य वसुंधराम्।
कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद्वनम्॥ 12-48-69(66688)
ततः शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः।
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ॥ 12-48-70(66689)
अराजके जीवलोके दुर्बला बलवत्तरैः।
वध्यन्ते न हि वित्तेषु प्रभुत्वं कस्यचित्तदा॥ 12-48-71(66690)
`ब्राह्मणाः क्षत्रिया वैश्याः शृद्राश्चोत्पथगामिनः।
परस्परं समाश्रित्य घातयन्त्यपथस्थिताः॥ 12-48-72(66691)
स्वधर्मं ब्राह्मणास्त्यक्त्वा पाषण़्डत्वं समाश्रिताः।
चौरिकानृतमायाश्च सर्वे चैव प्रकुर्वते॥ 12-48-73(66692)
स्वधर्मस्थान्द्विजान्हत्वा तथाऽऽश्रमनिवासिनः।
वैश्याः सत्पथसंस्थाश्च शूद्रा ये चैव धार्मिकाः॥ 12-48-74(66693)
तान्सर्वान्घातयन्ति स्म दुराचाराः सुनिर्भयाः।
यज्ञाध्ययनशीलांश्च आश्रमस्थांस्तपस्विनिः॥ 12-48-75(66694)
गोबालवृद्धनारीणां नाशं कुर्वन्ति चापरे।
आन्वीक्षकी त्रयी वार्ता न च नीतिः प्रवर्तते॥ 12-48-76(66695)
व्रात्यतां समनुप्राप्ता बहवो हि द्विजातयः।
अधरोत्तरापचारेण म्लेच्छभूताश्च सर्वशः॥ ' 12-48-77(66696)
ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः।
विपर्ययेण तेनाशु प्रविवेश पसातलम्।
अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः॥ 12-48-78(66697)
तां दृष्ट्वा द्रवतीं तत्र संत्रासात्स महामनाः।
ऊरुणा धारयामास कश्यपः पृथिवीं ततः।
निमज्जन्तीं ततो राजंस्तेनोर्वीति मही स्मृता॥ 12-48-79(66698)
रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा।
प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः॥ 12-48-80(66699)
पृथिव्युवाच। 12-48-81x(5449)
सन्ति ब्रह्मन्मया गुप्ताः स्त्रीषु क्षत्रियपुङ्गवाः।
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने॥ 12-48-81(66700)
अस्ति पौरवदायादो विदूरथसुतः प्रभो।
ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते॥ 12-48-82(66701)
तथाऽनुकम्पमानेन यज्वनाथामितौजसा।
पराशरेण दायादः सौदासस्याभिरक्षितः॥ 12-48-83(66702)
सर्वकर्माणि कुरुते शूद्रवत्तस्य स द्विजः।
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः॥ 12-48-84(66703)
शिबिपुत्रो महातेजा गोपतिर्नाम नामतः।
वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने॥ 12-48-85(66704)
प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः।
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः॥ 12-48-86(66705)
दधिवाहनपुत्रस्तु पौत्रो दिविरथस्य च।
अङ्गः स गौतमेनासीद्गङ्गाकूलेऽभिरक्षितः॥ 12-48-87(66706)
बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः।
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः॥ 12-48-88(66707)
मरुत्तस्यान्ववाये च रक्षिताः क्षत्रियात्मजाः।
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः॥ 12-48-89(66708)
एते क्षत्रियदायादास्तत्रतत्र परिश्रुताः।
व्योकारहेमकारादिजातिं नित्यं समाश्रिताः॥ 12-48-90(66709)
यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला।
एतेषां पितरश्चैव तथैव च पितामहाः॥ 12-48-91(66710)
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा।
तेषामपचितिश्चैव मया कार्या महामुने॥ 12-48-92(66711)
न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम्।
वर्तमानेन वर्तेयं तत्क्षिप्रं संविधीयताम्॥ 12-48-93(66712)
वासुदेव उवाच। 12-48-94x(5450)
ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः।
अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान्॥ 12-48-94(66713)
तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः।
एवमेतत्पुरावृत्तं यन्मां पृच्छसि पाण़्डव॥ 12-48-95(66714)
वैशम्पायन उवाच। 12-48-96x(5451)
एवं ब्रुवंस्तं च यदुप्रवीरो
युधिष्ठिरं धर्मभृतां वरिष्ठम्।
रथेन तेनाशु ययौ यथाऽर्को
विशन्प्रभाभिर्भगवांस्त्रिलोकीम्॥ ॥ 12-48-96(66715)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टचत्वारिंशोऽध्यायः॥ 48॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-48-2 भारते भारतसंग्रामे॥ 12-48-5 स्वयमेवान्वपद्यतेति झ. पाठः॥ 12-48-8 गाधेः पुत्रार्थं तस्याश्च पुत्रार्थं चरुं चरुद्वयम्॥ 12-48-9 उपयोज्यः भोज्यः भोक्तव्यः॥ 12-48-18 व्यंसिता वञ्चिता॥ 12-48-38 चित्रभानुना अग्निना॥ 12-48-41 आपवस्य वसिष्ठस्य॥ 12-48-42 श्रमे आश्रमे॥ 12-48-45 पितुर्वधे वधनिमित्तमासन्॥ 12-48-46 निमित्तादिति पाठे शापादेव हेतोः॥ 12-48-60 स्तृता व्याप्ता। शास्त्रं जग्राह तत्कार्यं क्षत्रियाणामन्तं कृतवान्॥ 12-48-61 वर्जिताः अहृताः॥ 12-48-68 शूर्पारकमिति झ. पाठः॥। 12-48-79 धृता तेनोरुणा येन तेनोर्वीति झ. पाठः॥ 12-48-84 द्विजः क्षत्रियोऽपि॥ 12-48-92 अपचितिः आनृण्यार्थं पूजा॥ 12-48-93 नित्यमतिक्रान्तेन धर्मातिक्रमिणा॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|